|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.235. अध्यायः 235
Mahabharata - Vana Parva - Chapter Topics
द्रौपद्या सत्यभामांप्रति पतिवशीकरणोपायोपदेशव्याजेन पतिव्रताधर्मकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
द्रौपद्युवाच। 3-235-0x(2584)(25219)
इमं तु ते मार्गमपेतदोषं
वक्ष्यामि चित्तग्रहणाय भर्तुः।
अस्मिन्यथावत्सखि वर्तमाना
भर्तारमाच्छेत्स्यसि कामिनीभ्यः ॥ 3-235-1(25220)
नैतादृशं दैवतमस्ति किंचि-
त्सर्वेषुलोकेषु सदेवकेषु।
यथा पतिस्तस्य तु सर्वकामा
लभ्याः प्रसादे कुपितश् हन्यात् ॥ 3-235-2(25221)
तस्मादपत्यं विविधाश् भोगाः
शय्यासनान्यद्भुतदर्शनानि।
वस्त्राणि माल्यानि तथैव गन्धाः
स्वर्गश्चलोको विपुला च कीर्तिः ॥ 3-235-3(25222)
सुखं सुखनेह न जातु लभ्यं
दुःखेन साध्वी लभते सुखानि।
सा कृष्णमाराधय सौहृदेन
प्रेम्णा च नित्यं प्रतिकर्मणा च ॥ 3-235-4(25223)
स्नानासनैश्चारुभिरग्रमाल्यै-
र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः।
अस्याः प्रियोस्मीति यथा विदित्वा
त्वामेव संश्लिष्यति सर्वभावैः ॥ 3-235-5(25224)
श्रुत्वा स्वरं द्वारगतस् भर्तुः
प्रत्युत्थिता तिष्ठ गृहस्य मध्ये।
दृष्ट्वा प्रविष्टं त्वरिताऽसनेन
पाद्येन चैनं प्रतिपूजयस्व ॥ 3-235-6(25225)
संप्रेषितायामथ चैव दास्या-
मुत्थाय सर्वं स्वयमेव कार्यम्।
जानातु कृष्णस्तव भावमेतं
सर्वात्मना मां भजतीति सत्ये ॥ 3-235-7(25226)
त्वत्संनिधौ यत्कथयेत्पतिस्ते
यद्यप्यगुह्यं परिरक्षितव्यम्।
काचित्सपत्नी तव वासुदेवं
प्रत्यादिशेत्तेन भवेद्विरागः ॥ 3-235-8(25227)
प्रियांश्च रम्यांश्च हितांश् भर्तु-
स्तान्भोजयेथा रविविधैरुपायैः।
द्वेष्यैरुपेक्ष्यैरहितैश् तस्य
भिद्स्वनित्यं कुहकोद्धतैश्च ॥ 3-235-9(25228)
मदं प्रमादं पुरुषेषु हित्वा
संयच्छ मानं प्रतिगृह् वाचम्।
प्रद्युम्नसाम्बावपि ते कुमारौ
नोपासितव्यौ रहिते कदाचित् ॥ 3-235-10(25229)
महाकुलीनाभिरपापिकाभिः
स्त्रीभिः सतीभिस्तव सख्यमस्तु।
चण्डाश् शौण्डाश्च महाशनाश्च
चोराश्च दुष्टाश्चपलाश्च वर्ज्याः ॥ 3-235-11(25230)
एतद्यशस्यं भगवेतनं च
स्वार्थं तदा शत्रुनिबर्हणं च।
महार्हमाल्याभरणाङ्गरागा
भर्तारमाराधय पुण्यगन्धैः ॥ 3-235-12(25231)
इति श्रीमनमहाभारते अरण्यपर्वणि द्रौपदीसत्यभामासंवादपर्वणि पञ्चत्रिंशततमोऽध्यायः ॥ 235 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-235-1 आच्छेत्स्यसि बलाद्धरिष्यसि। कामिनीभ्यः सपत्नीभ्यः। भर्तारमाकर्षसीति थ. पाठः ॥ 3-235-4 प्रतिकर्मणा कायक्लेशेन ॥ 3-235-5 संश्लिष्यति तद्विधत्स्वेति झ. पाठः ॥ 3-235-8 न भवेद्विकार इतिट. पाठः ॥ 3-235-10 तप्रमादं पुरुषेषु कृत्वेति ध.पाठः। नैवं प्रमाणं कुहकेषु कुर्या इति थ.पाठः। रहिते विजने ॥ 3-235-11 चण्डाः क्रूराः। शौण्डाः पराभिभवसमर्थाः। महाशनाः बहुभुजः। दुष्टाः द्वेषाद्याक्रान्ताः। स्त्रियो वर्ज्या इति शेषः ॥ 3-235-12 भगदैवतमिति झ. पाठः। भगदैवतं भाग्यकरम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|